Sunday, 4 March 2012

Rig Veda Book 9 Hymn 101

पुरोजिती वो अन्धसः सुताय मादयित्नवे |
अप शवानं शनथिष्टन सखायो दीर्घजिह्व्यम ||
यो धारया पावकया परिप्रस्यन्दते सुतः |
इन्दुरश्वो न कर्त्व्यः ||
तं दुरोषमभी नरः सोमं विश्वाच्या धिया |
यज्ञं हिन्वन्त्यद्रिभिः ||
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः |
पवित्रवन्तोक्षरन देवान गछन्तु वो मदाः ||
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन |
वाचस पतिर्मखस्यते विश्वस्येशान ओजसा ||
सहस्रधारः पवते समुद्रो वाचमीङखयः |
सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे ||
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति |
पतिर्विश्वस्य भूमनो वयख्यद रोदसी उभे ||
समु परिया अनूषत गावो मदाय घर्ष्वयः |
सोमासः कर्ण्वते पथः पवमानास इन्दवः ||
य ओजिष्ठस्तमा भर पवमन शरवाय्यम |
यः पञ्चचर्षणीरभि रयिं येन वनामहै ||
सोमाः पवन्त इन्दवो.अस्मभ्यं गातुवित्तमः |
मित्राः सुवाना अरेपसः सवाध्यः सवर्विदः ||
सुष्वाणासो वयद्रिभिश्चिताना गोरधि तवचि |
इषमस्मभ्यमभितः समस्वरन वसुविदः ||
एते पूता विपश्चितः सोमासो दध्याशिरः |
सूर्यासो न दर्शतासो जिगत्नवो धरुवा घर्ते ||
पर सुन्वानस्यान्धसो मर्तो न वर्त तद वचः |
अप शवानमराधसं हता मखं न भर्गवः ||
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः |
सरज्जारो न योषणां वरो न योनिमासदम ||
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी |
हरिः पवित्रे अव्यत वेधा न योनिमासदम ||
अव्यो वारेभिः पवते सोमो गव्ये अधि तवचि |
कनिक्रदद वर्षा हरिरिन्द्रस्याभ्येति निष्क्र्तम ||

http://www.vogaz.com

No comments:

Post a Comment