Saturday, 11 February 2012

Rig Veda Book 9 Hymn 72

हरिं मर्जन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते |
उद वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ||
साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः |
यदी मर्जन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ||
अरममाणो अत्येति गा अभि सूर्यस्य परियं दुहितुस्तिरो रवम |
अन्वस्मै जोषमभरद विनंग्र्सः सं दवयीभिः सवस्र्भिः कषेति जामिभिः ||
नर्धूतो अद्रिषुतो बर्हिषि परियः पतिर्गवां परदिव इन्दुरतवियः |
पुरन्धिवान मनुषो यज्ञसाधनः शुचिर्धियापवते सोम इन्द्र ते ||
नर्बाहुभ्यां चोदितो धारया सुतो.अनुष्वधं पवते सोम इन्द्र ते |
आप्राः करतून समजैरध्वरे मतीर्वेर्न दरुषच्चम्वोरासदद धरिः ||
अंशुं दुहन्ति सतनयन्तमक्षितं कविं कवयो.अपसो मनीषिणः |
समी गावो मतयो यन्ति संयत रतस्य योना सदने पुनर्भुवः ||
नाभा पर्थिव्या धरुणो महो दिवो.अपामूर्मौ सिन्धुष्वन्तरुक्षितः |
इन्द्रस्य वज्रो वर्षभो विभूवसुः सोमो हर्देपवते चारु मत्सरः ||
स तू पवस्व परि पार्थिवं रज सतोत्रे शिक्षन्नाधून्वते च सुक्रतो |
मा नो निर्भाग वसुनः सादनस्प्र्शो रयिं पिशङगं बहुलं वसीमहि ||
आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद धिरण्यवत |
उप मास्व बर्हती रेवतीरिषो.अधि सतोत्रस्य पवमान नो गहि ||
http://www.vogaz.com

No comments:

Post a Comment