Saturday, 11 February 2012

Rig Veda Book 9 Hymn 95

कनिक्रन्ति हरिरा सर्ज्यमानः सीदन वनस्य जठरे पुनानः |
नर्भिर्यतः कर्णुते निर्णिजं गा अतो मतीर्जनयतस्वधाभिः ||
हरिः सर्जानः पथ्यां रतस्येयर्ति वाचमरितेव नावम |
देवो देवानां गुह्यानि नामाविष कर्णोति बर्हिषि परवाचे ||
अपामिवेदूर्मयस्तर्तुराणाः पर मनीषा ईरते सोममछ |
नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम ||
तं मर्म्र्जानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम |
तं वावशानं मतयः सचन्ते तरितो बिभर्ति वरुणं समुद्रे ||
इष्यन वाचमुपवक्तेव होतुः पुनान इन्दो वि षया मनीषाम |
इन्द्रश्च यत कषयथः सौभगाय सुवीर्यस्य पतयःस्याम ||
http://www.vogaz.com

No comments:

Post a Comment