Saturday, 11 February 2012

Rig Veda Book 9 Hymn 99

आ हर्यताय धर्ष्णवे धनुस्तन्वन्ति पौंस्यम |
शुक्रांवयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ||
अध कषपा परिष्क्र्तो वाजानभि पर गाहते |
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ||
तमस्य मर्जयामसि मदो य इन्द्रपातमः |
यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ||
तं गाथया पुराण्या पुनानमभ्यनूषत |
उतो कर्पन्तधीतयो देवानां नाम बिभ्रतीः ||
तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम |
दूतं न पूर्वचित्तय आ शासते मनीषिणः ||
स पुनानो मदिन्तमः सोमश्चमूषु सीदति |
पशौ न रेत आदधत पतिर्वचस्यते धियः ||
स मर्ज्यते सुकर्मभिर्देवो देवेभ्यः सुतः |
विदे यदासु सन्ददिर्महीरपो वि गाहते ||
सुत इन्दो पवित्र आ नर्भिर्यतो वि नीयसे |
इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ||

http://www.vogaz.com

No comments:

Post a Comment